History, asked by lsyadav1946, 1 year ago

five lines in Sanskrit language on Diwali festival

Answers

Answered by rohanguptarihaaan
5
दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति ।
दीपावलि इत्युक्ते दीपानाम् आवलिः ।
अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति ।
कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व ।
सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति ।
दीपानां प्रकाशः अन्धकारम् अपनयति ।
एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति ।
प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते ।
दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति ।
पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति ।
रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति ।
सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति ।
ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति ।
बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति ।
अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति ।
भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति ।


the #RIHAAN
hope this will help you
Answered by Anonymous
2

Answer:

  1. दीपावलिः प्रतिवर्षे कार्तिकमासस्या अमावस्यायों तिथौ मान्यते।
  2. दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्ति।
  3. दीपावलि इत्युक्ते दीपानाम् आवलिः।
  4. कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्तिकशुद्धद्वितीयापर्यन्तं 5 दिनानि यावत् आचर्यते एतत् पर्व।
  5. दीपावलि दीपानां उत्सवः अस्ति।
Similar questions