Math, asked by shubham8860230, 3 months ago

क्लास 8 का कोई एक संस्कृत में अनुच्छेद बताइए 100​

Answers

Answered by itzsecretagent
3

Answer:

सदाचार

सज्जनाः यानि-यानि सत्कार्याणि कुर्वन्ति, स सदाचारः उच्यते। सदाचारी नरः कीर्ति भूतिं च लभते प्रातः काले उत्थाय मातापितरौ, वृद्धान्, गुरून् च प्रणमेत्। तेषां आज्ञाम् पालयेत्, तान् सेवेत च। सदाचारिणः सर्वेषां प्राणिनामुपकारं करोति। सदाचारेण मानवजीवनस्य सर्वविधा उन्नतिः भवति। अतएव सदाचारः उन्नत्याः द्वारमस्ति। सदाचारेणैव जनाः हितं मधुरं च वदन्ति। सदाचार-युक्तो जनः सर्वत्र आदरं लभते। सदाचारेण हीनो जन: सर्वत्र पशुतुल्यः भवति। सदाचारपालनेन एव श्रीरामः मर्यादा पुरुषोत्तमोऽभवत्। सदाचारेण एव महर्षिः दधीचिः गान्धि महोदयश्च यशः शरीरेण अद्यापि जीवितः। सदाचारिणः सर्वत्र आदरं लभन्ते। सदाचारस्य महिमानं वर्णयितुं कोऽपि न शक्नोति। अतोऽस्माभिः सर्वतोभावेन सदाचारः पालनीयः।

Similar questions