को न जानाति खलु महाकवेः कालिदासस्य
नाम? असौ न केवलं भारते प्रत्युत निखिले
विश्वे प्रसिद्धः। विश्वस्य अनेके देशवासिनः
स्व-स्वदेशस्य सर्वश्रेष्ठेन कविना सह
तस्य तुलनां कुर्वन्ति। वस्तुतः कालिदासः
सर्वेभ्योऽपि श्रेष्ठतमः अद्भुतश्च। अस्य
जन्मनः विषये अनेकाः किम्वदन्त्यः सन्ति।
राज्ञः विक्रमादित्यस्य नवरत्नेषु अन्यतमः
अयं महाकविः स्वजीवनस्य महत्त्वपूर्ण
समधिकं च कालम् उज्जयिन्यामेवाऽयापयत्
इति निश्चितम्।
Answers
Explanation:
कविशिरोमणिः कविकुलगुरुः कालिदासः कविश्रेष्ठः इति उच्यते। कालिदासः प्राचीनकालिकः राष्ट्रकविः उच्यते। कालिदासस्य जन्मस्थानं कश्मीराः वा वङ्गभूमिर्वा राजस्थानं वा उज्जयिनी वेति निश्चितं वक्तुं न शक्यते। न चास्य महानुभावस्य जीवनकालविषये कश्चिद् निर्णयः। महाराजविक्रमादित्यस्य राजसभाया अयं प्रतिष्ठितो विद्वान् इति सर्वैः स्वीक्रियते।
कालिदासस्य काव्ये किञ्चित् अलौकिकम्, अपूर्वम्, असाधारणम् च सौन्दर्यं दरीदृश्यते। तस्य काव्ये आकश्मीरात् आ कन्याकुमारीम्, आ द्वारिकायाः आ प्राग्ज्योतिषम् अपूर्व स्वाभाविकं च सौन्दर्यवर्णनम् उपलभ्यते। तस्य काव्यरस निपीय निपीय जनानाम् हृदयम् नृत्येन आन्दोलितम् इव भवति। तत्तुल्यः कोऽपि कविः नासीत् । अतः केनचित् कविना उक्तम् –
पुरा कवीनाम् गणनाप्रसंगे
कनिष्ठिकाधिष्ठितकालिदासा।
अद्यापि तत्तुल्यकवेरभावात्
अनामिका सार्थवती बभूव ॥