kalidas bio in sanskrit
Answers
Explanation:
कविशिरोमणिः कविकुलगुरुः कालिदासः कविश्रेष्ठः इति उच्यते । कालिदासः प्राचीनकालिकः राष्ट्रकविः उच्यते । कालिदासस्य जन्मस्थानं कश्मीराः वा वङ्गभूमिर्वा राजस्थानं वा उज्जयिनी वेति निश्चितं वक्तुं न शक्यते । न चास्य महानुभावस्य जीवनकालविषये कश्चिद् निर्णयः। महाराजविक्रमादित्यस्य राजसभाया अयं प्रतिष्ठितो विद्वान् इति सर्वैः स्वीक्रियते ।कालिदासस्य काव्ये किञ्चित् अलौकिकम्, अपूर्वम्, असाधारणम् च सौन्दर्यं दरीदृश्यते । तस्य काव्ये आकश्मीरात् आ कन्याकुमारीम्, आ द्वारिकायाः आ प्राग्ज्योतिषम् अपूर्व स्वाभाविकं च सौन्दर्यवर्णनम् उपलभ्यते । तस्य काव्यरस निपीय निपीय जनानाम् हृदयम् नृत्येन आन्दोलितम् इव भवति । तत्तुल्यः कोऽपि कविः नासीत् । अतः केनचित् कविना उक्तम्–
पुरा कवीनाम् गणनाप्रसंगे
कनिष्ठिकाधिष्ठितकालिदासा।
अद्यापि तत्तुल्यकवेरभावात्
अनामिका सार्थवती बभूव ॥
कालिदासेन अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रं च इति त्रीणि रूपकाणि, रघुवंशम्, कुमारसम्भवम् च इति द्वे महाकाव्ये, ऋतुसंहारम्, मेघदूतं च इति द्वे खंडकाव्ये विरचितानि । तस्य कौशलम् यथा पद्यरचनायाम् तथैव नाटकेषु वर्तते ।
कालिदासेन प्रकृतिः मानवसहचरीरूपेण वणिता। यदा तस्य पात्राणि हृष्यन्ति तदा प्रकृतिः अपि प्रफुल्ला भवति । यदा तस्य पात्राणि दुःखितानि भवन्ति तदा प्रकृतिरपि रोदितीव । यथा अभिज्ञानशाकुन्तले चतुर्थेऽङ्के शकुन्तला यदा कण्वाश्रम त्यक्त्वा पतिगृहं प्रयाति तदा तस्या वियोगे मृगा घासचर्वणं विस्मरन्ति, मयूरास्तस्याः शोके नृत्यं त्यजन्ति, किमन्यत् वृक्षा लताश्चापि रुदन्ति पत्ररूपाणि अश्रूणि च पातयन्ति-
उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।
कालिदासस्य काव्ये मानवमनसोऽपि गम्भीरचित्रणं वयं पश्यामः ।
कालिदासस्य काव्यानि व्यंजनामयानि सन्ति । वैदेशिकाः कालिदासं द्वितीयं शेक्सपीयरम् एव मन्यन्ते । गेटेनामा जर्मनकविः स्वर्लोकभूलोकयोः सौन्दर्यम् एकीभूतमिव अभिज्ञानशाकुन्तले अवलोकयति ।।
कालिदासस्य काव्यानां प्रमुखं वैशिष्टयम् उपमासौन्दर्यम् एव अस्ति । ‘उपमा कालिदासस्य’ इति आभाणकम् प्रसिद्धमेव। तस्य उपमायाः एकम् उदाहरणं दृश्यताम्- संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।
अत्र रघुवंशे इन्दुमत्याः स्वयंवरावसरस्य वर्णनमस्ति । इन्दुमती अत्र चलन्ती दीपशिखा इव वणता। वरमाला गृहीत्वा सा यस्य यस्य नृपस्य सम्मुखं याति स स प्रथमं तु प्रसन्नः भवति परन्तु यदा सा अग्रे गच्छति तदा तस्य मुखं तथैव म्लानं भवति यथा दीपप्रकाशशून्याः प्रासादाः भवेयुः । अत्र उपमया एव कालिदासेन नृपाणां मनोभावा अपि स्फुटं प्रदर्शिताः । अनया उपमया एव कालिदासेन दीपशिखाकालिदासः इत्युपाधिरधिगतः ।
Kalidasa (Kālidāsa, Sanskrit: कालिदास; fl. 4th–5th century CE) was a Classical Sanskrit author who is often considered ancient India's greatest playwright and dramatist. His plays and poetry are primarily based on the Vedas, the Ramayana, the Mahabharata and the Puranas.[1] His surviving works consist of three plays, two epic poems and two shorter poems.
Kalidasa
A 20th century artist's impression of Kalidasa composing the Meghadūta
A 20th century artist's impression of Kalidasa composing the Meghadūta
Occupation
Poet, Dramatist
Language
Sanskrit, Prakrit
Period
c. 4th–5th century CE
Genre
Sanskrit drama, Classical literature
Subject
Epic poetry, Puranas
Notable works
Kumārasambhavam, Abhijñānaśākuntalam, Raghuvaṃśa, Meghadūta, Vikramōrvaśīyam
Much about his life is unknown except what can be inferred from his poetry and plays.[2] His works cannot be dated with precision, but they were most likely authored before the 5th century CE.