India Languages, asked by kingyogesh, 1 year ago

Kalidas ki biography in sanskrit language

Answers

Answered by smkaif143
78
कविकुलगुरोः महाकवेः कालिदासस्य जन्म कुत्र कदा चाभूत् इति विषये न किमपि निश्चिततया वक्तुं शक्रुमः। अस्य जन्म विषये जन्मस्थानविषये च विचारकविदुषां वैमत्यं विद्यते। तथाप्यस्य जन्मविषये प्रायः भारतीयाः विद्वांसो वदन्ति यद् विक्रमादित्यस्य विक्रमसंवत्सरसंस्थापकस्य राज्यात् पूर्वं प्रथम शताब्द्यां महाकवेः कालिदासस्य संस्थिति रासीत्। पाश्चात्याश्च प्रायः सर्वेSस्य कवेः स्थितिम् ईसवीये चतुर्थं शतके गुप्तसाम्राज्ये स्वीकुर्वन्ति। महाकवेः कालिदासस्य प्राधान्येन सप्तैव रचनाः सन्ति, इति स्वीकुर्वन्ति विद्वांसः। रचनानां नामानि - कुमारसंभवमहाकाव्यं, रघुवंशमहाकाव्यञ्चेति द्वे महाकाव्ये, ऋतुसंहारम् मेघदूतञ्चेति द्वे खण्डकाव्ये अभिज्ञानशाकुन्तलम् विक्रमोवर्शीयं मालविकाग्रिमित्रञ्चेति त्रीणि नाटकानि एवं सत्व काव्यग्रन्थानेष महाकविः रचयामास। महाकविः नाट्यलेखनकलाकुशलो बभूव। अस्य नाटकेषु घटनासौष्टवं, स्वाभाविकविषयवर्णनं,चरित्रानुसारिपात्रचयनं, स्वभावोपस्थिताभिनयं, काव्ये रसपारिकम् सुतरां विलोकयामः। 
Answered by coolthakursaini36
7

                         महाकवि कालिदासः

महाकवि कालिदासः संस्कृत-साहित्यस्य शिरोमणि: कवि: अस्ति | विश्वेषु सर्वेषु कविषु महाकवि कालिदासः सर्वश्रेष्ठ: कवि: मन्यते | अस्य सप्त रचानानि विश्व प्रसिद्धानि सन्ति |  

एतेषु ‘रघुवंशम्’ खण्ड काव्यम् अस्य अपूर्वा कृति: | ‘मेघदूतम्’ नाम गीति काव्यं विश्वस्य गीतिकाव्येषु सर्वा: उत्तम: कृति: स्वीक्रियते |  

नाटकेषु ‘अभिज्ञानशाकुन्तलम्’ सर्व-श्रेष्ठं नाटकम् अस्ति | अभिज्ञानशाकुन्तले करुण रस: वर्तते | नाटके अस्मिन् गृहस्थ-आश्रमस्य व्यवहारस्य सर्वश्रेष्ठं ज्ञानं अस्ति |  

Similar questions