महाकवि कालिदास पर निबंध लिखिए संस्कृत में
Answers
Answer:
कविशिरोमणिः कविकुलगुरुः कालिदासः कविश्रेष्ठः इति उच्यते। कालिदासः प्राचीनकालिकः राष्ट्रकविः उच्यते। कालिदासस्य जन्मस्थानं कश्मीराः वा वङ्गभूमिर्वा राजस्थानं वा उज्जयिनी वेति निश्चितं वक्तुं न शक्यते। न चास्य महानुभावस्य जीवनकालविषये कश्चिद् निर्णयः। महाराजविक्रमादित्यस्य राजसभाया अयं प्रतिष्ठितो विद्वान् इति सर्वैः स्वीक्रियते।
कालिदासस्य काव्ये किञ्चित् अलौकिकम्, अपूर्वम्, असाधारणम् च सौन्दर्यं दरीदृश्यते। तस्य काव्ये आकश्मीरात् आ कन्याकुमारीम्, आ द्वारिकायाः आ प्राग्ज्योतिषम् अपूर्व स्वाभाविकं च सौन्दर्यवर्णनम् उपलभ्यते। तस्य काव्यरस निपीय निपीय जनानाम् हृदयम् नृत्येन आन्दोलितम् इव भवति। तत्तुल्यः कोऽपि कविः नासीत् । अतः केनचित् कविना उक्तम् –
पुरा कवीनाम् गणनाप्रसंगे
कनिष्ठिकाधिष्ठितकालिदासा।
अद्यापि तत्तुल्यकवेरभावात्
अनामिका सार्थवती बभूव।।
कालिदासेन अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रं च इति त्रीणि रूपकाणि, रघुवंशम्, कुमारसम्भवम् च इति द्वे महाकाव्ये, ऋतुसंहारम्, मेघदूतं च इति द्वे खंडकाव्ये विरचितानि। तस्य कौशलम् यथा पद्यरचनायाम् तथैव नाटकेषु वर्तते।
Explanation:
hope this helps u . plz do mark as brainliest ;)