Hindi, asked by ananyakatiyar16, 1 year ago

रमणीय प्रकृति पर संस्कृत कविता, गीत या श्लोक

Answers

Answered by bhardwajsaksham
2

Answer:

शाश्वतम्, प्रकृति-मानव-सङ्गतम्,

सङ्गतं खलु शाश्वतम् ।

तत्त्व-सर्वं धारकं

सत्त्व-पालन-कारकं

वारि-वायु-व्योम-वह्नि-ज्या-गतम् ।

शाश्वतम्, प्रकृति-मानव-सङ्गतम् ॥ (ध्रुवम्)

*

सन्ति निरतं जीव-जगतां प्राण-दाने,

तरु-लतानां विविध-वर्गाः शं दधाने ।

वन-गिरि-नदी-पशु-विहङ्गाः

रात्रि-दिन-ऋतु-शशि-पतङ्गाः,

सर्वमास्ते जन-हितार्थं संहतम् ।

रक्षति प्रकृतिः सती

सौख्य-राशिं तन्वती

वन्य-सम्पद् रक्षणीया सन्ततम् ।

शाश्वतम्, प्रकृति-मानव-सङ्गतम् ॥ (१)

*

भातु पर्यावरणममलं दिग्‌विताने,

यातु हिंसा ध्वंसमचिरं सन्निधाने ।

अवतु पवनो मुक्त-गगनं

स्वच्छ-परिमल-धौत-सदनं

दुर्नयानां पर्व यातु पराहतम् ।

प्रीति-मैत्री-बोधना

हार्दिकी सद्‍भावना

हन्तु सर्वं वैर-वर्वर-पर्वतम् ।

शाश्वतम्, प्रकृति-मानव-सङ्गतम् ॥ (२)

*

शान्ति-मन्त्रो जयतु नितरां सौम्य-गाने,

प्रेम-गङ्गा वहतु सुजला ऐक्य-ताने ।

निवसतु सुखं विश्व-जनता

लीयतां ननु दनुज-घनता,

दिव्य-तेजो भातु भव्यमनारतम् ।

प्राणिनां संवेदना

वर्धतां शुभकामना

भातु सत्यं सुन्दरं शिव-सम्मतम् ।

शाश्वतम्, प्रकृति-मानव-सङ्गतम् ॥ (३)

Explanation:

Eternal is the relationship

between Nature and human beings.

The relationship is eternal.

All the elements of water, wind, sky,

fire and earth are verily the holders

and nourishers of creatures.(0)

Various kinds of trees and creepers

are always engrossed in giving life

and in the matters offering welfare

to the world of animate beings.

Forests, mountains, rivers,

animals and birds, further

nights, days, seasons, Moon and Sun,

all are unitedly engaged

for the well-being of the people.

Nature auspiciously protects

and bestows all sorts of pleasures.

So all the beings that are wealth

of the forest regions must be

always protected properly.

Eternal is the relationship

between Nature and human beings. (1)

May the environment shine neat and

pollution-free in all the spheres of directions.

May the violence be annihilated soon

in the presence of noble deeds.

May the air protect open firmament

and spread in the houses

with cleanliness and fragrance.

May the series of corruptions

be defeated and eradicated.

May the hearty fellow-feelings

filled with affections and friendship

destroy the mount of cruelty and enmity.

Eternal is the relationship

between Nature and human beings. (2)

May the incantation of peace

be victorious reverberating

with calm and comely singing.

May River Ganga of love and affections

flow affluent with sacred water

spreading sweet tune

of unity and harmony among all.

Let all the people live in happiness.

Let the demonical attributes be slain.

May the divine splendour

excellently scintillate all the moments.

Let the compassionate feelings and

sincere hearty wishes attain growth.

May Truth, Beauty and Auspiciousness

pervade shining for ever.

Eternal is the relationship

between Nature and human beings. (3)

Answered by SananKachhot
3

वयं वायुजलमृदाभिः आवृत्ते वातावरणे निवसामः। एतदेव वातावरणं पर्यावरण कथ्यते। पर्यावरणेनैव वयं जीवनोपयोगिवस्तुनि प्राप्नुमः। जलं वायुः च जीवने महत्वपूर्णो स्तः। साम्प्रतं शुद्ध - पेय - जलस्य समस्या वर्तते। अधुना वायुरपि शुद्धं नास्ति। एवमेव प्रदूषित-पर्यावरणेन विविधाः रोगाः जायन्ते। पर्यावरणस्य रक्षायाः अति आवश्यकता वर्तते। प्रदूषणस्य अनेकानि कारणानि सन्ति। औद्यौगिकापशिष्ट - पदार्थ - उच्च - ध्वनि - यानधूम्रादयः प्रमुखानि कारणानि सन्ति। पर्यावरणरक्षायै वृक्षाः रोपणीयाः। वयं नदीषु तडागेषु च दूषितं जलं न पतेम्। तैल रहित वाहनानां प्रयोगः करणीयः। जनाः तरुणां रोपणम् अभिरक्षणं च कुर्युः।

निबंध संख्या 2 : पर्यावरण निबंध

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । पर्यावरणम् भारतदेशस्य राजधानी विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । पर्यावरणम् एषा भारतस्य तृतीया बृहती नगरी वर्तते । इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव ।पर्यावरणम् मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।

Similar questions