Hindi, asked by ramakant1985joom, 2 months ago


ऋतव: षड् भवन्ति। ते क्रमशः आयान्ति यान्ति च। तेषां नामानि सन्ति- वसन्तः,
ग्रीष्मः, वर्षा, शरद, हेमन्त : शिशिर: च।
प्रथम: ऋतु: वसन्तः। वसन्ते न शैत्यं न उष्णता भवति। परिवेश: मनोहर: भवति। वृक्षेषु पुष्पाणां सौन्दर्यं मनांसि हरति। पक्षिण: कलरवैः प्रसन्नतां प्रकटयन्ति। कोकिलानां काकली हर्ष जनयति मदयति च। जनाः गायन्ति नृत्यन्ति च।
द्वितीयः ग्रीष्मः। अस्मिन् ऋतौ भानोः उग्रः तापः सर्वत्र उष्णतां प्रसारयति। तप्ताः
वायवः जनान्, पशून् खगान् च व्याकुलान् कुर्वन्ति। गृहे-गृहे व्यजनं वातानुकूलितं यन्त्रं च चलति। अतएव विद्यालये ग्रीष्मावकाशः भवति।
तृतीयः वर्षा ऋतुः। अस्मिन् ऋतौ आकाशे कृष्णवर्णाः मेघाः इतस्ततः भ्रमन्ति। कदाचित् तु भानो: दर्शनमपि न भवति। मेघाः धारासाररूपेण वर्षन्ति। कृषकाः प्रसन्नाः भवन्ति। पशुभ्यः मानवेभ्यः च पर्याप्तानि तृणानि अन्नानि च उद्भवन्ति।
चतुर्थः शरद्-ऋतुः। शरदृतौ मृदुशीतं भवति। अस्मिन् ऋतौ चन्द्रस्य काचिद् अपूर्वा शोभा भवति। शरत्पूर्णिमायां रात्रौ चन्द्रिकायाः अमृतवर्षणेन पायसम् अमृतमयं भवति।
पञ्चमः हेमन्तः षष्ठः शिशिर: च। हेमन्त-ऋतौ शिशिर-ऋतौ च अत्यधिक शीतं भवति। पर्वतप्रदेशेषु हिमपातः भवति। जना: ऊर्ण-वस्त्राणि धारयन्ति उष्ण-पेयानि च पिबन्ति।


translate in hindi​

Answers

Answered by anasazi467
0

Answer:

hi how are you.

Explanation:

i need points can i take.

Similar questions