संस्कृत भाषाया: महत्वम्।
Answers
Answer:
1) सर्वासामेताषा भाषाणाम इय जननी। (2) संस्कृत भाषा विश्वस्य सर्वासु भाषासु प्राचीनतम भाषा अस्ति। (3)संस्कृतभाषामेव विश्वसाहित्य सर्वचाचीनग्रन्था: चत्वारो वेदा: संति येषा महत्वमघाति सर्वेअपरि वर्तते। (4) संस्कृता भाषा परिशुद्धा व्याकरण सम्बंधिदोषादिरहिता संस्कृत भाषेति निगघते।
Answer:
परिष्कृत, व्याकरणादिदोष रहितं यत् भाषा तत् संस्कृतम् अस्ति। इयं भाषा एवं देववाणी, सुरभारती, गीर्वाणवाणी इत्यादिकैः नामभिः व्यवहियते। संस्कृत भाषा संसारस्य सर्वासु भाषासु प्राचीनतमा, परिष्कृततमा च विद्यते।।
अस्याः भाषायाः साहित्यम् अपि सुविशालं, परमोन्नत, विविध- ज्ञान-समन्वित च अस्ति। भारतस्य प्राचीनाः ग्रन्थाः चत्वारः वेदाः संस्कृतभाषायां सन्ति। धर्मशास्त्राणि, अष्टादश-पुराणानि, अष्टादश स्मृतयः, षट् दर्शनानि च संस्कृत भाषायां एवं लिखिताः सन्ति। सम्पूर्ण कर्मकाण्ड विभागः सम्पूर्ण च आयुर्वेद पद्धतिः, एते सर्वे ग्रन्थाः संस्कृतभाषायां एवं निबद्धाः सन्ति।
एतेषाम् अध्ययनेन भारतवर्षस्य, प्राचीन धर्मस्य, आयुर्वेदस्य, तथा अतीत सभ्यतायाः पूर्णः परिचयः प्राप्यते। एवं संस्कृत वाग्मय एव भारतस्य संस्कृतेः आध्यात्मिकस्य च ज्ञानस्य विशुद्ध रूपज्ञानाय एकं साधनम्। एवं इयं भाषा: प्राचीनतमा इति निर्विवादम्। कतिपयैः उदाहरणैः अस्याः परिकृतिः अपि प्रकटयितुम् शक्यते। आंग्लभाषायां लिख्यते ‘बुट’ पठ्यते च ‘बट’ लिख्यते पुट पुनः बटवत् ‘पट’ इति न पठ्यते। एवमेव अनेकानि भ्रष्ट्रभाषायाः उदाहरणानि सन्ति। संस्कृतमेव सा भाषा यस्यां यत् लिख्यते तदेव पठ्यते।
संस्कृत भाषा: न केवलं उच्चारणे सर्वोत्कृष्ट अपितु मधुरा दिव्या च। इयं भाषा आचारशास्त्र शिक्षिका, जीवनोन्नतिकारिणी च अस्ति।
ये कथयन्ति यत् कर-भाषा कठिना वर्तते, ते न जानन्ति यत् स्वल्य प्रयासेनैव संस्कृतं पठितं शक्य। संस्कृत भाषाः अस्माकं देशस्य सांस्कृतिकः निधिः अस्ति। सम्पूर्णमपि सांस्कृतिक वाङ्गमयं संस्कृतमाश्रित्य एव अवतिष्ठते। संस्कृत्याः वाङ्मयेन रहितरस्य राष्ट्रस्य जातेश्च अध: पतनम् अनिवार्यम्। संस्कृस्य एतादृशं महत्त्वं दृष्टैव कश्चित् कविना सत्यम् एवं उक्तम्:-
"भारतस्य प्रतिष्ठे हे संस्कृतं चैव संस्कृतिः”
CONCLUSION:
I HOPE IT HELPS YOU. PLEASE MARK ME AS THE BRAINLIEST. DO THANK MY ANSWER AND RATE IT TO MAKE MY ANSWERS MORE BETTER.