English, asked by Somee, 1 year ago

Sanskrit essay on satsangati

Answers

Answered by Udaykant
5
सत्संगतिः

सतां सज्जनानां संगतिः । सज्जनानां संगत्या ह्रदयं विचारं च पवित्रम् भवति । अनया जनः स्वार्थभावं परित्यज्य लोककल्याणकामः भवति । दुर्जनानां संगत्या दुर्बुद्धिः आगच्छति । दुर्बुद्धिः दुःखजननी अस्ति । सज्जनानां संगत्या दुर्जनः अपि सज्जनः भवति । दुष्टदुर्योधनसंगत्या भीष्मोऽपि गोहरणे गतः । ऋषीणाम् संगत्या व्याधः वाल्मीकिः अपि कवि वाल्मीकिः अभवत् । रावणसंगत्या समुद्रः अपि क्षुद्र नदीव बन्धनं प्राप्तः । अतः साध्विदमुच्यते-सत्संगतिः कथय किं न करोति पुंसाम् ।

दूरीकरोति कुमतिं विमलीकरोति चेतश्र्चिरंतनमधं चुलुकीकरोति ।
भूतेषु किं च करुणां बहुलीकरोति संगः सतां किमु न मंगलमातनोति ॥
Similar questions