Sanskrit Mein Vidyalaya par Das Vakya
Answers
अयं अस्माकं विद्यालयः अस्ति। अस्य भवनानि भव्यानि श्वेतवर्णानि च सन्ति। अस्य प्रधानाध्यापकः बहुज्ञः व्यवहार कुशलः छात्रप्रियः च अस्ति। अत्र विंशति अध्यापकाः सन्ति। एते सर्वे सुयोग्याः सन्ति। अत्र बहवः छात्राः सन्ति। छात्राः अनुशासन प्रियाः सन्ति। विद्यालयस्य क्रीडाप्रांगणम् सुविस्तृतम् हरितदूर्वाछन्नम् च अस्ति। सायंकाले तत्र छात्राः क्रीडन्ति। अयं विद्यालयः अस्माकं गौरवास्पदम् अस्ति। अत्र प्रत्यब्दमं समरोहाः भवन्ति। देशस्य विशिष्टाः विद्वांसः नेतारः विविधकलाकुशलाश्च आगच्छन्ति। अत्र छात्राणाम शारीरिक मानसिक - बौद्धिकाध्यात्मिक योग्यताविकासाय अहनिर्शं प्रयतते
अस्माकं विद्यालयस्य नाम 'बालभारती विद्यालय' अस्ति। एषः विद्यालयः दिल्लीनगरे अतीव विख्यातः अस्ति। अस्य वातावरणम् आकर्षकम् अस्ति। अस्यं भवनं सुन्दरम् अस्ति। भवनस्य मध्यभागे विशालः प्रकोष्ठ: वर्तते। अत्र प्रतिसप्ताहं बालसभायाः अधिवेशनं भवति, गोष्ठी-आयोजनम् अपि भवति। गोष्ठी-समारोहे महत्त्वानां विषयाणां चर्चाः भवन्ति। विद्यालये विंशतिः कक्षाः सन्ति। प्रवेशद्वारानन्तरमेव प्रधानाचार्य महोदयस्य, तथा उपप्रधानाचार्यस्य कक्षौ: स्तः। अन्येषाम् आचार्याणाम् एक: कक्षः अस्ति। विद्यालये सर्व अध्यापका; छात्रा: च अनुशासनप्रियाः सन्ति। विद्यालये जनपालनस्यापि उचिता सुविधा वर्तते। अत्र सर्वत्र स्वच्छता वर्तते, यत्: अस्माकं प्रधानाचार्य महोदयः स्वच्छतां प्रति ध्यानं ददाति। मम विद्यालयस्य परीक्षापरिणाम: सदा श्रेष्ठः भवति। विद्यालयस्य छात्रा: विविधासु क्रीडाप्रतियोगितासु अपि भागं गृहन्ति, पदकानि च प्राप्नुवति। अहं विद्यालयं नित्यम् उत्साहन गच्छामि।