Short essay on lotus in Sanskrit
Answers
Answered by
15
कमलम्
कम् - जलं अलङ्करोति इति कमलम्। पद्मम् नलिनम् अरविन्दं पङ्केरुहं सरोरुहं तामरसम् सरसीरुहम् इत्यनेकानि पर्यायपदानि सन्ति कमलस्य। कमलम् अतीवविशिष्टपुष्पम् अस्ति। अस्माकं धार्मिकग्रन्थेषु सर्वत्र कमलसंबद्घपदानि वर्णानानि दृश्यते। देवीदेवाः कमलप्रियाः खलु। भगवान् विष्णोः अपरनामानि बहूनि पद्मसंबद्घानि तथा देव्याः च। विष्णुः स्वयमेव पद्मनाभः इति प्रसिद्धः । ब्रह्मा तु कमलज एव। पद्मासने एव देवीदेवाः वर्तन्ते।आत्मीयगूढार्थोऽपि कमलेैः सूच्यते ननु यथा सहस्रारपद्ममविषये ब्रह्मकमलविषये तादृशेषु सन्दर्भेषु कमलम् इति केवलं पुष्पम् एव नास्ति। विद्यादेवता सा वाणी च श्वेतपद्मासनस्था। भागवते गजेन्द्रमोक्षसन्दर्भे गजेन्द्रः क्लिष्टावस्थायां स्वस्य हृदयकमलेन सह सरोवरात् कमलपुष्पमपि समर्पितः तदा अरविन्दाक्षपद्मनाभकमलप्रियेण विष्णुना सः रक्षितो जातः इत्येव कथा। अद्यापि पूजापुष्पाणां मध्ये कमलं प्रामुख्यं वहति। वश्यमन्त्रैः होमाग्नौ कमलदलान्यर्पयन्ति कामार्थिनः।सहस्रनामस्तोत्रेषु बहुत्र पद्मसंबद्घानि नामानि द्रष्टुं शक्नुमः।
पद्मासना, राजीवलोचना, मृणाळमृदुदोर्लता (मृणाळमित्युक्ते कमलस्य अन्तर्भागस्य सूत्रम् ) एतादृशानि देव्याः नामानि ललितासहस्रनामस्तोत्रे दृश्यन्ते ।
नित्योपासकानां हृदयकमले हि भगवान् तिष्ठति इति भक्तजनैः विश्वस्यते। वयमपि हृदय पङ्कजविकासार्थं भगवन्तं प्रार्थयाम।।
I am not the original author of this
Source- http://knramesh.blogspot.com/2017/12/lotus-sanskrit-essay.html
Hope this helps

Similar questions