India Languages, asked by Gurrie3123, 10 months ago

तदिनं नातिदूरम् यदा वयम् हस्ते एकमात्रं चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्यामः। वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति। ‘पासबुक’ ‘चैबुक’ इत्यनयोः आवश्यकता न भविष्यति। पठनार्थं पुस्तकानां समाचारपत्राणाम् अनिवार्यता समाप्तप्राया भविष्यति। लेखनार्थम् अभ्यासपुस्तिकायाः कर्गदस्य वा, नूतनज्ञानान्वेषणार्थम् शब्दकोशस्यवाऽपि आवश्यकतापि न भविष्यति। अपरिचित-मार्गस्य ज्ञानार्थम् मार्गदर्शकस्य मानचित्रस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति। एतत् सर्वं एकेनैव यन्त्रेण कर्तुम्, शक्यते। शाकादिक्रयार्थम्, फलक्रयार्थम्, विश्रामगृहेषु कक्षं सुनिश्चितं कर्तुम् चिकित्सालये शुल्क प्रदातुम्, विद्यालये महाविद्यालये चापि शुल्क प्रदातुम्, किं बहुना दानमपि दातुम् चलदूरभाषयन्त्रमेव अलम्। डिजीभारतम् इति अस्यां दिशि वयं भारतीयाः द्रुतगत्या अग्रेसरामः।
एकपदेन उत्तरत-(एक पद में उत्तर दीजिए)
(i) दानमपि दातुं किम् अलम् अस्ति?
(ii) किमर्थं पुस्तकानाम् अनिवार्यता समाप्तप्राया भविष्यति?
(iii) भविष्यकाले वयं हस्ते किम् आदाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्याम:?
(iv) अपरिचित-मार्गस्य ज्ञानार्थं कस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति?

Answers

Answered by kaminipandey
1

Answer:

please ask small question

Answered by simranparmar087
1

Answer:

Don't post essay type question.

Similar questions