Hindi, asked by ashasingh9, 8 months ago

udyanam essay in Sanskrit​

Answers

Answered by queenlvu7276
0

Answer:

hey here is your answer

"उद्यानम्" इत्यनेन शब्देन कस्य मनः आह्लादं न अनुभवति । यतोहि अनेन शब्देन ताः मधुर-क्षणानां स्मृतयः स्मृतिपथे आयान्ति, यानि बाल्यकाले स्वमित्रैः सह उद्याने क्रीडता अस्माभिः व्यतीतानि सन्ति । अस्माकं समाजे सर्वे खलु जनाः उद्यानानां महत्त्वं जानन्ति, तदैव नगरेषु, महानगरेषु ग्रामेषु च सर्वत्रैव उद्यानानि अनेकानि भवन्ति ।

उद्याने बहवः वृक्षाः भवन्ति, तेषु केचन फलान्विताः, केचन च तेवलं पुष्पान्विताः सन्ति । केषुचित् स्थलेषु उद्यानं परितः परिखा एका निर्मीयते । अनया पशवः उद्याने प्रविष्टाः न भवन्ति । उद्यानेS स्मिन् पक्षिणः वृक्षेषु मधुरं कलरवं कुर्वन्ति । भ्रमराः पुष्पेषु गुञ्जन्ति स्व प्रियया सह प्रातःकाले, यदा अस्मिन् पुष्पाणि विकसन्ति, तेषु मधुपानं च कुर्वन्ति ।

बहवः जनाः अस्मिन्नेव समये सायंकाले च स्वास्थ्य-लाभाय उद्यानमध्ये भ्रमणार्थं आगच्छन्ति । केचित् आध्यात्मिकाः जनाः अत्रागत्य एकान्ते भगवत् ध्यानं कुर्वन्ति । अत्र अनेकेषां वृक्षाणां छाया अतीव सघना वर्तते , अनेन सा ग्रीष्मकाले रम्या सुखदायिनी च भवति । बहवः पथिकाः अस्मिन् उद्याने मध्याह्नकाले विश्राममपि कुर्वन्ति ।

अस्माकं नगरमध्येS पि एकम् उद्यानम् अस्ति । तस्य उद्यानस्य नाम "महर्षि-उद्यानम्" वर्तते । तस्मिन् जम्बीर-आम्र-द्राक्षा-अमृतफल-निम्बादीनां विविध-श्रेणीनाम् वृक्षाः सन्ति । तत्र एकं जलयन्त्रमपि विद्यते । तस्मात् जलयन्त्रात् जलधाराः निरन्तरेण प्रवहन्ति । दृश्योS यं उद्याने स्थाने-स्थाने कोमलानि शष्पाणि विस्तृतानि । अस्योपरि स्थित्वा जनाः परमसुखम् अनुभवन्ति । उद्यानेSस्मिन् एकः कूपोSपि वर्तते । तस्मादेव कूपात् अस्मिन् सर्वेभ्यः वृक्षेभ्यः जलसेचनं क्रियते । अस्य उद्यास्य रक्षणाय एकः मालाकारोSपि अत्र नियुक्तोSस्ति । सः खलु अस्य परिरक्षणं, संरक्षणं च करोति । सः प्रातःकालाद् रात्रिपर्यन्तं अस्मिन् कार्यं करोति । सः कमपि जनम् अस्माद् उद्यानात् पुष्पचयनार्थम् अनुमतिः न ददाति । अस्य उद्यानस्य एकः एव प्रवेशद्वारः वर्तते । वस्तुतः उद्यानम् एतत् अस्माकं नगरस्य शोभा अस्ति ।

प्राचीनकालेSपि राजानः स्वप्रासादेषु उद्यानं नियोजयन्ति स्म । तत्र ते स्व परिजनैः सह मनोरंजनं कुर्वन्ति स्म । एतत् राजोद्यानम् कथ्यते स्म । सर्वेषां जनानां प्रवेशः अत्र निषिद्धः आसीत् । यतोहि तानि सार्वजनिकानि उद्यानानि च भवन्ति स्म।

एतैः उद्यानैः अस्मत्कृते बहवः लाभाः सन्ति । सर्वप्रथमं तु एतानि अस्मत्कृते परिशुद्धं वायुं ददाति । अनेन एतेषां उद्यानानं पर्यावर्णस्य शुद्ध्यर्थं महत्त्वपूर्णं योगदानं वर्तते । एतेभ्यः वृक्षेभ्यः दैन्योपयोगिनी काष्ठानि फलानि च प्राप्यन्ते । पूजनकार्येषु पुष्पाणि उपलभ्यन्ते । फलानि खलु वयं प्रीतिपूर्वकं एतेषां खादामः , छायायां च परमशान्तिम् अनुभवामः ।

किं बहुना एतानि उद्यानानि सर्वप्रकारेण खलु अस्मत्कृते लाभाय एव भवन्ति । अनेनैव केनचित् कविना एतेषां उद्यानानां प्रशंसा विषये मनोरमं पद्यम् एतत् विरचितम्---

hope it help u

Answered by rutujabhosle69
3

here is your answer dear?!!!!

उद्यानम्" इत्यनेन शब्देन कस्य मनः आह्लादं न अनुभवति । यतोहि अनेन शब्देन ताः मधुर-क्षणानां स्मृतयः स्मृतिपथे आयान्ति, यानि बाल्यकाले स्वमित्रैः सह उद्याने क्रीडता अस्माभिः व्यतीतानि सन्ति । अस्माकं समाजे सर्वे खलु जनाः उद्यानानां महत्त्वं जानन्ति, तदैव नगरेषु, महानगरेषु ग्रामेषु च सर्वत्रैव उद्यानानि अनेकानि भवन्ति ।उद्याने बहवः वृक्षाः भवन्ति, तेषु केचन फलान्विताः, केचन च तेवलं पुष्पान्विताः सन्ति । केषुचित् स्थलेषु उद्यानं परितः परिखा एका निर्मीयते । अनया पशवः उद्याने प्रविष्टाः न भवन्ति । उद्यानेS स्मिन् पक्षिणः वृक्षेषु मधुरं कलरवं कुर्वन्ति । भ्रमराः पुष्पेषु गुञ्जन्ति स्व प्रियया सह प्रातःकाले, यदा अस्मिन् पुष्पाणि विकसन्ति, तेषु मधुपानं च कुर्वन्ति ।बहवः जनाः अस्मिन्नेव समये सायंकाले च स्वास्थ्य-लाभाय उद्यानमध्ये भ्रमणार्थं आगच्छन्ति । केचित् आध्यात्मिकाः जनाः अत्रागत्य एकान्ते भगवत् ध्यानं कुर्वन्ति । अत्र अनेकेषां वृक्षाणां छाया अतीव सघना वर्तते , अनेन सा ग्रीष्मकाले रम्या सुखदायिनी च भवति । बहवः पथिकाः अस्मिन् उद्याने मध्याह्नकाले विश्राममपि कुर्वन्ति ।

plz mark me as a brainlist!!!

Similar questions