Hindi, asked by shristisingh15899, 6 months ago

विद्या की महत्ता बताते हुए 10 श्लोक लिखे​

Answers

Answered by ananyasharma427
4

Answer:

 \huge \boxed{ \fcolorbox{black}{pink}{answer}}

➡अधिगतपरमार्थान्पण्डितान्मावमंस्था

स्तृणमिव लघुलक्ष्मीर्नैव तान्संरुणद्धि ।

अभिनवमदलेखाश्यामगण्डस्थलानां

न भवति बिसतन्तुवरिणं वारणानाम् ॥

➡संयोजयति विद्यैव नीचगापि नरं सरित् ।

समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम् ॥

➡विद्यां ददाति विनयं विनयाद् याति पात्रताम् ।

पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम् ॥

➡कुत्र विधेयो यत्नः विद्याभ्यासे सदौषधे दाने ।

अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥

➡विद्याविनयोपेतो हरति न चेतांसि कस्य मनुजस्य ।

कांचनमणिसंयोगो नो जनयति कस्य लोचनानन्दम् ॥

➡विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ।

कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् ॥

➡पुस्तकस्या तु या विद्या परहस्तगतं धनं ।

कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥

➡अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।

अधनस्य कुतो मित्रममित्रस्य कुतः सुखम् ॥

➡अनालस्यं ब्रह्मचर्यं शीलं गुरुजनादरः ।

स्वावलम्बः दृढाभ्यासः षडेते छात्र सद्गुणाः ॥

➡अर्थातुराणां न सुखं न निद्रा कामातुराणां न भयं न लज्जा ।

विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न रुचि न बेला ॥

Explanation:

Hope I help you!!

Similar questions