Hindi, asked by ssakshishrma, 8 months ago

वहति मन्द मर सनीरे समीरे कलिन्दात्म जापाप्तवानीरतारे
नतां पम्तिमालोबम मधुमाधवीनाम्​

Answers

Answered by abdur98
0

Explanation:

रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।

न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥

धीरसमीरे यमुनातीरे वसति वने वनमाली

गोपीपीनपयोधरमर्दनचञ्चलकरयुगशाली ॥ १॥

नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् ।

बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २॥

पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।

रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥३॥

मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् ।

चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४॥

उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।

तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५॥

विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।

किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६॥

हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।

कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७॥

श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।

प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८॥

Similar questions