vidhya par sanskrit mai vakya
Answers
केनचित् कविना सत्यमेव उक्तम्-
‘न चौरहार्यं न च राजहार्यं भातृभाज्यं न भारकारि
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधन प्रधानम्।’
नूनं विद्या एव अक्षयधन्म अस्ति। एतद्धनं न चौरेः हार्यं न च भ्रातृभिः भाज्यम्। एतच्च व्यये कृते अपि वर्धते एव। विद्याधनं महादानं वर्तते। विद्या विहीनस्य पूरुषस्य जीवनं व्यर्थमस्ति। जीवने व्दायधनस्य अतीव आवश्यकता भवति। विद्यां विना नरः किमपि कार्यं कर्तुं न शक्नोति। विद्याहीनः सभामध्ये अपमानितो भवति। विद्या एव सः विवेकी भवति। सर्वे जनाः सुखं वांछन्ति, किन्तु सुखप्राप्त्यर्थं विद्यार्जन्म आवश्कयमेव। यतः कथ्यते-
विद्या ददाति विनियं विनयात् याति पात्रताम्
पात्रत्वाद् धनमाप्नोति, धनात् धर्मं ततः सुखम्।
यो पिता स्वपुत्राय शैशवे विद्याधनं न यच्छन्ति, सः स्वपुत्रस्यकृते किमपि न करोति इति मन्ये। विद्यां विना सः प्रगतिं कर्तुं न शक्नोति। विद्याविङीनः पुरूषः साक्षात् पशुः एव। यथा पशुः विद्यां विना धर्माधर्मयोः विचारं कर्तुं न शक्नोति तथा विद्याहीनः पुरूषः अपि धर्माधर्मयों, कर्तव्याकर्तव्योः विवेकं कर्तुं न प्रभवति। पशुमनुष्ययोः भेदः विद्यया एवं क्रियते।
यस्य समीपे विद्याचक्षुर्नास्ति स अन्ध; एव। विद्या मानवस्य ज्ञानचक्षुः अस्ति। विद्यालोचनेन अज्ञानतमः नश्यन्ति। विद्या किं किं न करोति? केनचित कविना उक्तम्-
मानवे रक्षति पितेव हिते नियुंक्ते,
कान्तेव चाभिरमयत्पनीय खेदम्
लक्ष्मीं तनोति, वितनोति च दिक्षु कीर्तिम्
किं किं न साधयति कल्पानेव विद्या।
नूनं, माता बालकस्य रक्षणं केवलं बाल्ये करोति, किन्तु विद्या तं सदैव रक्षति, तस्य कीर्तिं दिक्षु प्रसरति। विद्या एव धनं, कीर्ति ददाति। विद्यावान् एव सर्वत्र पूज्यते, मूर्खश्च अभिभूयते। अत: मनुष्यस्य जीवनयापनाय, तस्य विकासाय विद्यार्जनम् अनिवार्यमस्ति। अन्यधनम् अशाश्वतं, किन्तु विद्याधनं शाश्वतं खलु। अन्यत् धनं प्राप्य मनुष्यः गर्वोधनः भवति, किंतु विद्याधनम् अवाप्य सः विनम्रः जायते। विद्या सर्वेषां भूषणमस्ति।
अन्ते एतदेव कथनं यत् सर्वेषु धनेषु विद्याधनं सर्वश्रेष्ठं, सर्वप्रधानम् अस्ति।