मालिनी - अहो! अज्ञानं भवत्याः। किं न जानासि यत् नवोत्तर-द्वि-सहस्र (2009) तमे वर्षे सर्वकारेण सर्वेषां बालकानां, सर्वासां बालानां कृते शिक्षायाः मौलिकाधिकारस्य घोषणा कृता । यदनुसारं षड्वर्षेभ्यः आरभ्य चतुदर्शवर्षपर्यन्तं सर्वे बालाः समीपस्थं सर्वकारीयं विद्यालयं प्राप्य न केवलं निःशुल्कं शिक्षामेव प्राप्स्यन्ति अपितु निःशुल्कं गणवेषं पुस्तकानि, पुस्तकस्यूतम्, पादत्रणम्, माध्याह्नभोजनम्, छात्रवृत्तिम् इत्यादिकं सर्वमेव प्राप्स्यन्ति।
दर्शना- अप्यमेव (आश्चर्येण मालिनीं पश्यति)
मालिनी- आम्। वस्तुत: एवमेव।
दर्शना - (कृतार्थानां प्रकटयन्ति) अनुगृहिताऽस्मि महोदये।एतद् बोधनाय।अहम् अद्यैवास्या:प्रवेशं समीपस्थे विद्यालये कारयिष्यामि।
दर्शनाया:पुत्री- (उल्लासेन सह) अहं विद्यालयं गमिष्यामि।अहमपि पठिष्यामि।( इत्युक्त्वा करतलवादन सहितं नृत्यति मालिनीं प्रति च कृतज्ञतां ज्ञापयति)
I. एकपदेन उत्तरं लिखत- (1×3=3)
(क) मौलिकाधिकारस्य घोषणा कदा अभवत्?
(ख) "अहं विद्यालयं गमिष्यामि" इति का अवदत्?
(ग) दर्शनाया:पुत्री केन सहितं नृत्यति ?
।।. पूर्णवाक्येन उत्तरं लिखत- (2)
(क) षड्वर्षेभ्य:आरभ्य चतुर्दशवर्षपर्यन्तं सर्वे बाला विद्यालये किं किम् नि: शुल्कं प्राप्ति
Answers
Answer:
1
क) मौलिकाधिकारस्य घोषणा 2009 अभवत्।
ख) दर्शनाया: पुत्री।
ग) करतलवादन सहितं नृत्यति।
Answer:
उपरि खण्डः दर्शनस्य मालिनी च मध्ये सर्वकारेण दत्तस्य निःशुल्कशिक्षणस्य विषये वार्तालापः अस्ति I
यस्य अनुसारं केचन प्रश्नाः सन्ति येषां उत्तराणि निम्नलिखितरूपेण सन्ति I
I. एकपदेन उत्तरं :
(क) मौलिकाधिकारस्य घोषणा कदा अभवत्?
उत्तरम्: २००९ तमे वर्षे
(ख) "अहं विद्यालयं गमिष्यामि" इति का अवदत्?
उत्तरम्:दर्शनपुत्री
(ग) दर्शनाया:पुत्री केन सहितं नृत्यति ?
उत्तरम्: उल्लासेन सह
।।. पूर्णवाक्येन उत्तरं:
(क) षड्वर्षेभ्य:आरभ्य चतुर्दशवर्षपर्यन्तं सर्वे बाला विद्यालये किं किम् नि: शुल्कं प्राप्ति
उत्तरम्: २००९ तमे वर्षे सर्वकारेण सर्वेषां बालकानां कृते, सर्वेषां बालकानां कृते शिक्षायाः मौलिकः अधिकारः घोषितः? एतदनुसारं षड् वर्षाणां चतुर्दशवर्षपर्यन्तं सर्वेषां बालकानां कृते न केवलं निःशुल्कशिक्षा भविष्यति, अपितु समीपस्थं सरकारीविद्यालयं प्राप्य निःशुल्कं वर्दी, पुस्तकानि, पुस्तकपुटकानि, जूतानि, मध्याह्नभोजनं, छात्रवृत्तिः च प्राप्यते।