प्रविश्य च गुहाद्वार एव धवलशिलातले समुपविष्टाम् अधोमुखीम् कथमपि तरलिकया विधृतशरीराम् महाश्वेताम् अपश्यत्। दृष्टवा च किमेतदिति तरलिकाम् अपृच्छत्। अथ महाश्वेतैव प्रत्यवादीत् महाभाग! श्रुयताम् केयूरकात् भवद्गमनम् आकर्य, विदीर्णमानसा समुत्पन्नानेक गुणवैराग्या पुनः कष्टतरतपश्चरणाय यावत् अत्रैवाहम् आयाता, तावत्र महाभागस्यैव तुल्याकृतिं ब्राह्मणयुवानम् अपश्यम् स तु माम् उपसृत्य अदृष्टपूर्वोऽपि प्रत्यभिजानन्निव सुचिरम् आलोक्य अब्रवीत्-"वरतनु, सर्वों जनो जगति वयसः सदृशम् आचरति। तव पुनः विसदृशानुष्ठाने कोऽयं प्रत्यन:? यदियं मालतीमालवे कण्ठप्रणयैकयोग्यता तनुः अनुचितेन अनेन तप: करणक्लेशेन ग्लानिम् उपनीयते" इति।
(i) गुहाद्वारे प्रविश्य चन्द्रापीड: कां पश्यति?
(ii) तरलिकां महाश्वेता विषये प्रश्नं कः पृच्छति?
(iii) चन्द्रापीइस्य प्रश्नोत्तरम् का ददाति?
(iv) धवलशिलातले का समुपविष्टाम?
(v) महाश्वेता कम् अपश्यत्?
Answers
Answered by
1
sorry I don't know hindi
Similar questions