India Languages, asked by Roko733, 9 months ago

Paragraph on how to protect environment in sanskrit language

Answers

Answered by bably66
2

निरंतरं वर्धमानं प्रदूषणं सर्वेषां चिन्तायाः विषयः जातः। यत: प्रदूषणेन अधिका: मनुजाः रुग्णाः भवन्ति। अनेन प्रकृत्याः हानिर्भवति, जीवनामपि हानिर्भवति। अतः प्रदूषणसमस्यायाः समाधाने वैज्ञानिकाः प्रयतन्ते किन्तु पर्यावरणस्य रक्षा अस्माभिः सर्वे: करणीया। यावत् देशस्य नागरिक: पर्यावरणस्य रक्षणे दृढनिश्चयः न भवति, तावत् अस्याः समस्या समाधानं न भवति। स्थाने-स्थाने विविधा: वृक्षा रोपणीयाः। तेषां च संवर्धनमपि अवश्यं कर्त्तव्यम्। विद्यालयेषु ‘वृक्षारोपण' दिवसस्य आयोजनं भवेत्। वृक्षारोपणं सर्वेषां नैतिकं कर्तव्यमस्ति। जलप्रदूषणनिवारणार्थं जलशुद्धिः करणीया। अवकरः मार्ग न क्षेपणीयः। सर्वत्र पर्यावरणविषये गोष्ठीनाम् आयोजनं भवेत्। ध्वनिप्रदूषणम् अपि निवारणीयम्। ध्वनिप्रदूषणं निवारयितुं ध्वनिप्रसारणयन्त्राणां प्रयोगः न्यूनतमः करणीयः। यदि सर्वे नागरिकाः पर्यावरण विषये कृतसंकल्पाः भवन्ति, तर्हि किमपि दुष्करं नास्ति।

Similar questions