sanskrit essay on bal shram
Answers
बाल श्रमः एका समस्या जाता। पञ्च वयसः चतुर्दश आयुः पर्यन्तम् बालकैः बहिः श्रमः न करणीयः। परन्तु केचन बालाः केनचित् कारणेन स्वल्पाय वेतनाय अधिकं परिश्रमं कुर्वन्ति। अस्य प्रमुखं कारणं तु दरिद्रता एव। माता पितरः पुत्राणां सम्यक् पोषणं कर्तुम् असमर्थाः भवन्ति बालकान् च तैः सह व्यवसाये योजयन्ति। अनेन आर्थिक समस्या काचित् न्यूना भवेत् । एते अन्यैः बालकैः सदृशं पाठशालां गन्तुं न शक्नुवन्ति। अस्मादपि दयनीया हि अनाथ शिशूनां दुर्दशा। स्वार्थिनः निज लाभाय एतेभ्यः स्वल्पं वेतनं दत्वा विविधेषु कार्येषु नियोजयन्ति। उपहारगृहेषु आपणेषु च प्रातः एव मार्जनं समीकरणं कुर्वतः ईदृशान् बालकान् पश्यामः। जन संख्यायाः आधिक्यम् अपि बाल श्रमं जनयति। यद्यपि अस्माकं सार्वकारेण अस्य प्रचलनस्य खण्डनं कृतं तथापि धनस्य अभावात् जीवन भरणार्थं च बाल कर्मकराः सर्वत्र दृश्यन्ते।
बाल श्रमः अभिशापः एव। बाल्ये एव कठिनेषु कार्येषु संलग्नाः एते सुमधुरं शैशवं न विजानन्ति। शैशवं मानव जीवनस्य अति सुन्दरः कालः वर्तते। चिन्ता नाम किमपि वस्तु न विद्यते। बालाः सर्वदा कोलाहलं कुर्वन्तः आनन्देन कालं नयन्ति। परन्तु केचन जनाः बालान् श्रम युक्त कार्येषु नियोजयन्ति। एते सामाजिक कण्टकाः प्रतिपदं एतान् शोषयन्ति। क्रीडनम्, पठनं, साहित्य संगीत कला ज्ञानं , इति उत्साहपूर्वकान् विषयान् बाल श्रमिकाः कथम् ज्ञास्यन्ति? एतस्मात् दुःखतरं किमपि न स्यात् यत् ईश्वरेण सदृशाः बालाः शैशव कालस्य सुखानि अनुभवितुम् न शक्नुवन्ति।
बाल श्रमेण शारीरिक विकासे बाधा अवश्यं जन्यते। ते कठिनं श्रमं कुर्वन्ति परन्तु अपेक्षितं पौष्ठिकम् आहारं नैव लभन्ते। येन देहः शिथिलः बलहीनः जायते। फलस्वरूपम् अचिरेण रोगिणः च भवन्ति। अनध्ययनेन च मानसिक विकासः न भविष्यति। बाल श्रमः पूर्णतया व्यक्तित्वमेव परिवर्तयति। अहर्निशं श्रमेण जीवन्तः एते वराकाः इतर ज्ञानवर्धकानि कार्याणि कर्तुं न इच्छन्ति। बाल श्रमः तेषु दुर्गुणान् सरलतया वपन्ति। एते अल्प वयसि धनागमनस्य दुष्परिणामाः एव। ईर्श्या, चौर्यं, लुठनं, किम् बहुना हननम् अपि द्रष्टुं शक्यते।
न केवलं पितृणां च पोषकाणाम् अपितु नागरीकाणाम् अयम् कर्तव्यः यत् बालाः कदापि श्रम कार्याणि न कुर्युः। तेषाम् पोषणं उचित प्रकारेण, नियमित रूपेण, विधिवत् भवेत्। बालानाम् अध्ययनम् अनिवार्यम्। स्वस्थं शरीरं, सम्यक् चिन्तनं,सुचारु वर्धनं च बालकस्य भविष्यम् उज्ज्वलं करिष्यन्ति। इत्यत्र न सन्देहः विद्यते।
भरत देशे बाला कर्मिकाः भवः शांति। किंटू केचना जनः अर्थ तेशम पुत्रन कार्यय प्रेषयंती। वयम उन्मिल्य बाला कर्मिका वृत्तिम निर्मूलन करे अविद्या जन जागृतम कुरमा। भरत देशं सशक्तम् कूर्मः।